Post

कपीनामुपवासः | The Fasting of Monkeys

The Fasting of Monkeys

Introduction to the work

A work by D. T. Tatachariyar of Tanjore, a scholar of Nyāya, Mīmāṃsā, etc. and an erudite in compositions.

This work contains a story depicting the plight of monkeys when they tried attempting fasting like humans.

The story

Once upon a time, the leader of the monkeys gathered all their kin and said, “We know that our ancestors were so great that they were renowned for their power, courage, and knowledge across all three worlds. Who doesn’t know Sugrīva, from whom even the best among the Kosalas, Rāma, sought assistance? Who hasn’t heard of Vāli, who was pierced by Rāma, the slayer of Rāvaṇa, in a hidden way; the same Ravana powerful enough to lift Kailāśa? In whose ancestry was Hanumān born, the one who crossed the ocean, went to Laṅkā, burned it, and was also a knower of nine grammars? Where was Nala born, after whom the famous Nalasetu, built by him, is named?

Why am I giving such examples today? Having considered something important, I shall now tell you. Listen with an open mind. What do we lack that makes us different from humans?”

Having spoken these meaningful words, the best of the monkeys fell silent, and the assembly around him was stirred for a moment by the bold and deliberate speech of their proud leader. “Think for a moment: whatever rights the humans gain through the dharmaśāstras, don’t they equally apply to us? Our tradition has been lost for a long time, but it shall now be preserved by you because, devoid of Dharma, only monkeyhood will be established within us. Therefore, let us keep our intellects aligned with the path of Dharma. Tomorrow is Ekādaśī. Let us all practice Dharma by fasting tomorrow.”

The leader concluded his speech, and everyone was satisfied with his words and happy. The next morning, with Śrīrāma in their minds, they freshened up and were ready for their fast. Some were playing, some were scratching, and some sat idle. As they observed each other in silence, one of them finally broke it. Who indeed is capable of changing monkeys’ inherent quality of being fickleness? He said. “We are fasting today, but our best way of breaking the fast shall be at the Jamun tree.” Everyone agreed with his suggestion.

After a few moments, another monkey spoke, “We will all be tired from today’s fasting by tomorrow morning. So let us sit on the banks of the river where the Jamun tree is.” Everyone agreed and headed there. After some time, another one said, “We might not have much energy to climb the tree tomorrow morning. So let us sit on the tree today itself.” Everyone agreed and climbed the tree. Even a moment on the tree seemed like an eternity.

After a few moments, a monkey finally said, “The god has given us small pouches around our cheeks (bhastrikā). Let us fill them with fruits today, so there is no problem searching for food tomorrow.” Everyone agreed, and they started filling their cheek cavities with fruits.

Nothing more needs to be said about what happened after that. The monkeys, roaming as they pleased, took away the very pen I was writing this tale with.

Original Saṃskṛta

पुरा कदाचित् कपिसार्वभौमः कश्चित्समाहूय जनान् स्वकीयान्। प्रवर्त्य सम्मेलनमात्मनीनामुवाच वाचं वदतां वरेण्यः ॥ १ ॥

ज्ञातं हि वो वानरवंशवृद्धाः प्राञ्चो यदस्मत्कुलजा महान्तः। शौर्येण वीर्येण च विद्यया च लोकत्रयेऽपि प्रथिता बभूवुः ॥ २ ॥

प्रियोपलम्भाय वृतः सहायो यः कोसलेन्द्रस्य कुमारकेण। कस्याऽत्र लोके विदितो न जन्तोः सुग्रीवनामा स कपिप्रवीरः ॥ ३ ॥

कैलासकम्पप्रथितप्रभावं लङ्केश्वरं यः क्रिमिवच्चकर्ष । निलीय विद्धो रघुनन्दनेन कस्मिन् कुलेऽजायत सैष वाली ॥ ४ ॥

उदन्वदुल्लङ्घनलब्धवर्णो लङ्कापुरीदाहलसत्प्रतापः। श्रीमान् नवव्याकरणप्रवीणो जज्ञे हनूमान् स च कुत्र वंशे ॥ ५ ॥

निबन्धितोऽब्धौ रघुपुङ्गवेन यस्याऽऽख्यया सेतुरिह प्रसिद्धः। आचड्ढ्वमाहो कपिवंशवृद्धाः सोऽयं नलः कुत्र बभूव वंशे ॥ ६ ॥

किमद्य सर्वैर्गणितैर्महद्भिर्ये नः कुलालंकृतयो बभूवुः । विवक्षितं किञ्चिदिदं वदामि विधाय कर्णे विमृशन्तु सन्तः ॥ ७ ॥

किन्तावदस्मासु न विद्यते यन्मनुष्यजातेरवरा भवेम। किं वा मनुष्येष्वधिकं चकास्ति यतः प्रकृष्येत मनुष्यवर्गः ॥ ८ ॥

इतीरयित्वा गिरमर्थयुक्तां तूष्णीं भवन् वानरवावदूकः। वाग्मित्वदर्पोद्धतधीरमन्दं सभां समन्तात् क्षणमालुलोके ॥ ९ ॥

स्वोत्कर्षवाचा विकसन्मुखानां प्लवङ्गमानां विविधाङ्गहारैः। प्रोत्साहितोऽसौ प्लवगाधिराजः प्रीतः पुनर्धीरमुवाच वाचम् ॥ १० ॥

तदद्य मान्याः परिचिन्तयध्वं धर्मेषु शास्त्रैरुपदर्शितेषु । मनुष्यवर्गस्य यथाऽधिकारस्तथा किमस्मत्कुलजस्य न स्यात् ॥ ११ ॥

चिरप्रलीनोऽपि स सम्प्रदायो नूनं भवद्भिः परिपालनीयः। धर्मव्यपाये हि मृगत्ववादः प्रवर्तितोऽस्मासु भवेन्निरूढः ॥ १२ ॥

तात्कालिकं क्लेशमतः सहद्भिर्निधीयतां धीः स्थिरधर्ममार्गे । एकादशी श्वो भविता तदानीमुपोष्य धर्मं प्रथमं कुरुध्वम् ॥ १३ ॥

शाखामृगाणामिति चक्रवर्ती निषिच्य कर्णेष्वमृतं कपीनाम् । सन्तोषचिह्नैर्बहुधोपलक्ष्यैस्तेषां प्रहृष्यन् विरसो बभूव ॥ १४ ॥

कीच्कारसान्द्रां प्लुतभेददृश्यां तस्यार्हणां प्रेममयीं प्रवाचः। कृत्वोपवासे कृतनिश्रयास्ते मुदा ययुर्मानुषसाम्यहृष्टाः ॥ १५ ॥

अथ प्रभाते किल जागरित्वा नदीजलस्नानपवित्रिताङ्गाः। निधाय रामं हृदि तेऽभिरामं सङ्कल्पयामासुरुपोषणाय ॥ १६ ॥

अथ क्षणार्धं निभृतं स्थितानां परस्परप्रेक्षणतत्पराणाम्। हृदीव गात्रेऽपि बभूव लौल्यं प्रभुः स्वभावं व्यतिवर्तितुं कः ॥ १७ ॥

विधाय जृम्भां व्यवधूय हस्तं प्रसार्य पादं परिवर्त्य गात्रम्। आचुम्ब्य पुच्छाग्रमसोढकण्डूरन्ते कपिः कोऽपि बिभेद मौनम् ॥ १८ ॥

असंशयं सम्पति पालनीयं व्रतं महापुण्यमिदं महान्तः। तथाऽपि जम्बूद्रुममूलभाजां श्वः पारणा नः सुकरेति भाति ॥ १९ ॥

इत्येवमुक्तं स्वगुणानुरूपं कीशेन तेन प्रतिमोदमानाः। स्थिरासनक्लेशविनाशतोषात् कीशाः परे तुल्यमिति प्रणेदुः ॥ २० ॥

तथाऽस्तु को दोष इह स्थिताश्चेद्व्रतोपवासश्रमपीडिताङ्गाः। वृक्षान् प्रति प्रातरितः प्रयातुं प्रायेण शक्ता न वयं भवेम ॥ २१ ॥

इत्थं विनिश्चित्य तटात्तटिन्याः स्वच्छन्दमुत्प्लुत्य विचेष्टमानाः। आसाद्य जम्बूद्रुममूलदेशमाबध्य पङ्क्तिं हरयो निषेदुः ॥ २२ ॥

तथा स्थितास्ते क्षणिकानुबद्धैरुद्वीक्षणैर्विष्वगवेक्षणैश्च। कण्डूयनैश्शीघ्रतमैश्च कांश्चित् क्षणान् कथञ्चित् क्षपयांबभूवुः ॥ २३ ॥

अथोत्थितः कश्चिदलुप्तधैर्यः कपिः कपीन्द्रान् कथयाम्बभूव। आरुह्य वृक्षं यदि संविशेम का नः क्षतिस्तत्र भविष्यतीति ॥ २४ ॥

व्रतस्य हानिर्न हि काचिदस्ति तत्रेत्युरीकृत्य तदप्यमी द्राक्। आरुह्य वृक्षं विततासु तस्थुः शाखासु तस्य व्रतिनः कपीन्द्राः ॥ २५ ॥

तत्रैकतो जोषमवस्थितानां निर्बन्धजातद्विगुणश्रमाणाम्। अभक्षणध्याननिरन्तराणां क्षणः क्षणोऽदृश्यत कल्पदीर्घः ॥ २६ ॥

वातेरिताभ्यो द्रुमशाखिकाभ्यः सशब्दपातीनि रसोल्बणानि । फलानि दृश्यानि निरीक्ष्य निर्यद्दन्तोदकानां क्षुभितं मनोऽभूत् ॥ २७ ॥

फलानुपातिस्वमनोरथेषु ह्रीयन्त्रणान्मौनमभञ्जयत्सु। सर्वेषु कश्चित् प्रतिलभ्य धैर्यं सर्वाशयं स्वाशयवज्जगाद ॥ २८ ॥

प्रकल्पिता सर्वविदा विधात्रा कपोलयोरस्ति हि भस्त्रिका नः। तां पूरयेमाद्य फलैरदुष्टैर्नास्तां फलान्वेषणसङ्कटं श्वः ॥ २९ ॥

तथेत्यथोत्प्लुत्य हरिप्रवीराः शाखोपशाखासु परिभ्रमन्तः। फलैरशुष्कैः परिपाकरम्यैरपूरयन्नाननकन्दराणि ॥ ३० ॥

ततः परं यत् करणीयमत्र न किञ्चिदन्योन्यनिवेद्यमासीत्। तस्माच्चरन्तः कपयो यथेच्छं जह्रुर्लिखन्तीं किल लेखनीं नः ॥ ३१ ॥

Source

kapīnāmupavāsaḥ

This post is licensed under CC BY 4.0 by the author.