Post

Trivikramabhaṭṭa and his verses

Verses attributed to Trivrikramabhaṭṭa in Saṃskṛta anthologies.

A preliminary list of all verses attributed to Trivikramabhaṭṭa, author of Nalacampū, in Padyaracanā (compiled by Lakṣmaṇa Bhaṭṭa), Subhāṣita Hārāvali (compiled by Hari kavi) and Saduktikarṇāmṛta (compiled by Śrīdharasena).

– Translations in Hindi and English will be added soon.

पद्यरचना

निर्भासं मुखमण्डले परिमितं मध्ये लघुं कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे।
पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणेः॥२३॥

किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः।
परस्य हृदये लग्नं न घूर्णयति यच्छिरः॥७६०॥

उत्फुल्लगलैरालापाः क्रियन्ते दुर्मुखैः सुखम्।
जानाति हि पुनः सम्यक् कवेरेव कवेः श्रमम्॥७६१॥

तावत् कविविहङ्गानां ध्वनिर्लोकेषु शस्यते।
यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः॥७६५॥

हृदि लग्नं बाणेन यन्मन्दोऽपि पदक्रमः।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम्॥७६६॥

सुभाषितहारावली

सम्यग् बाणद्वितीयेन नमदाकारधारिणा।
धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः॥३१६॥

अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च।
क्व सा वै रात्रिजातस्य तमसो दुर्जनस्य च॥४९३॥

आबध्नत् परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाद् बहिः कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम्।
तन्वङ्ग्यः परिनृत्यतीव हसतीवात्सर्पतीवोल्बणं लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले॥१६०७॥

कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति मपि यत।
अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम्॥१७८३॥

त्वद्देशागतमारुतेन मृदुना सञ्जातरोमाञ्चया त्वद्रूपाङ्कितचारुचित्रफलके निर्वापयन्त्या दृशम्।
त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने नीचैः पञ्चमगीतिगर्भितगिरा नक्तंदिनं स्थीयते॥१९९७

लास्यं पांसुकणायते नयनयोः शल्यं श्रुतेर्वल्लकी नाराचाः कुचयोः सचन्दनरसाः कर्पूरवारिच्छटाः।
तस्याः काऽप्यरविन्दसुन्दरदृशः सा नाममन्ये दशा प्राणत्राणनिबन्धनं तव कथास्यामभूत्केवलम्॥१९९८

कर्पूराम्बुनिशेषेकभाजित सरसैरमभोजिनीनां दलैरास्तीर्णैरपि वर्तमानवपुषः स्रस्तस्रजि स्रस्तरे।
मन्दोन्मेषदृशः किमन्यदभवत् सा काऽप्यववस्था पुनर्यस्यां चन्दनचन्द्रपङ्कजनलश्रेण्यादि वह्नीयते॥१९९९

अपसरति न चक्षुषो मृगाक्षी रजनिरियं न च याति नैति निद्रा।
प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपायाः॥२०४५

सदुक्तिकर्णामृतम्

हे चूतद्रुम किं मुधैव मधुपान् प्रीणासि किं कोकिलाञ्जल्पन्तो मधुराणि नित्यमलिना नैते चिरस्थायिनः।
तानुल्लासय पल्लवाननुदिनं यैराहितामुन्नतिं बिभ्राणः प्रतिपर्वनिर्भतफलैरुत्तुङ्गतां यास्यसि॥१९०३

This post is licensed under CC BY 4.0 by the author.