Post

तेनालिरामकृष्णकवेः चतुरता

लेखकः कालुरि-हनुमन्तरावः | गैर्वाणी मासिकी पत्रिका - वर्ष ५, अङ्क ३-४

श्रीकृष्णदेवरायस्य अष्टसु विख्यातेषु कविवरेषु तेनालिरामकृष्णः एकतमः। तेन “पाण्डुरङ्गमाहात्म्यम्” इति नाम्ना काव्यम् आन्ध्रभाषायां निबद्धम्। रामकृष्णस्य कविता प्रौढतया भाषते। अपि तु स सर्वदा हास्यशीलः परिहासचणः आसीत्। ततो विकटकविः इति तस्य प्रथा व्यापृता। रामकृष्णकवेः परिहासचतुरतां प्रकटयन्ती एषा कथा कर्णोपकर्णिकया श्रूयमाणा वर्तते।

एकदा रामकृष्णो व्याधिग्रस्तो बभूव। कोऽपि वैद्यः तस्य चिकित्सां न चकार चिकित्सामूल्यं स न प्रयच्छतीति शङ्कया। यदा व्याधिः उद्धृता आसीत् रामकृष्णः साक्षिणां समक्षं केनचिद् विनिमेयं निर्णयमकरोत् “चिकित्सा क्रियताम्, प्राप्तारोग्योऽहं राज्ञा दत्तमिमं वराश्वम् आपणे विक्रीय यावद् धनं तस्य मूल्यत्वेन लप्स्यते तावद् अस्मै भिषजे नूनं प्रदास्यामि” इति। ओमिति स वैद्यो बहुमूल्यानि औषधानि प्रयुज्य श्रद्धया चिकित्सां चकार, रामकृष्णोऽपि लघु लघु आरोग्यवान् उदतिष्ठत्।

अनन्तरम् एकस्मिन् दिने रामकृष्णो वराश्वमापणस्थानं प्रति प्राचालयत्। किन्तु अश्वस्य उपरि एकं मर्कटं बद्ध्वा तम् अपि अनयत्, आपणे उच्चैरेवम् अघोषयत् - “वराश्वोऽयं विक्रीयते एकरूप्यकेण। मर्कटः च विक्रीयते एकोनशतेन रूप्यकैः। अश्वमर्कटौ सहितौ एव क्रेतव्यौ” इति। सर्वे विस्मयमानाः विहसन्तः अपूर्वं विलक्षणं च एतद् विनिमेयं पश्यन्ति स्म। कश्चिद् उत्तमाश्वप्रियः शतं रूप्यकाणि प्रदाय अश्वमर्कटौ अक्रीणात्। बन्धं विमुच्य मर्कटं विसृज्य अश्वं स्वगृहाभिमुखं प्राचालयत्। रामकृष्णो भिषजे अश्वमूल्यम् एकं रूप्यकं ददौ।


Download Graphic, PDF or TXT files from here

This post is licensed under CC BY 4.0 by the author.