Post

Mahāvākyasiddhāntastotra by Śaṅkarācārya

क्षणं ब्रह्माऽहमस्मीति यः कुर्यादात्मचिन्तनम्।
तन्महापातकं हन्ति तमः सूर्योदयो यथा॥१॥

अज्ञानाद् बुद्बुदो जातो ह्याकाशो बुद्बुदोद्भवः।
आकाशाद्वायुुरुत्पन्नो वायोस्तेजस्ततः पयः॥२॥

पयसः पृथिवी जाता ततो व्रीहियवादिकम्।
पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ॥३॥

नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽप्यहं हरिः।
अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः॥४॥

कर्तृभोक्त्रादिकं सर्वं तदविद्योत्थमेव च।
अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहं हरिः॥५॥

आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम्।
नित्योऽहं निर्विकारोऽहं निर्विकल्पोऽहमव्ययः॥६॥

सच्चिदानन्दरूपोऽहं पञ्चकोशातिगोऽस्म्यहम्।
अकर्ताऽहमभोक्ताऽहमसङ्गः परमेश्वरः॥७॥

अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम्।
इति ध्यानाश्रितो मुक्तो बद्ध एवाऽन्यथा भवेत्॥८॥

अन्योऽसावहमन्योऽस्मीत्युपास्ते योऽन्यदेवताम्।
न स वेद नरो ब्रह्म स देवानां यथा पशुः॥९॥

आत्मानं सततं ब्रह्म संभाव्य विचरन्ति ये।
न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः॥१०॥

ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत्।
अशक्नुवन् भावयितुं वाक्यमेतत् सदा जपेत्॥११॥

एकमासं ध्यानयोगाद् ब्रह्महत्यां व्यपोहति।
संवत्सरकृताभ्यासः सिद्ध्यष्टकमवाप्नुयात्॥१२॥

यावज्जीवं सदाभ्यासाज्जीवन्मुक्तो न संशयः।
मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम्॥१३॥

मयि सर्वं लयं याति तद्ब्रह्मोऽस्म्यहमद्वयम्।
नाऽहं देही न में देहः केवलोऽहं सनातनः॥१४॥

एकमेवाऽद्वयं ब्रह्म नेह नानास्ति किञ्चन।
अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माऽहमव्ययम्॥
अत्र प्रमाणं वेदानुभवा गुरुवचस्तथा॥१५॥

॥इति श्रीमच्छङ्कराचारविरचितं महावाक्यसिद्धान्तस्तोत्रं सम्पूर्णम्॥

मञ्जूषा Vol 6, Nos. 6-9, Feb-May 1952

This post is licensed under CC BY 4.0 by the author.