Post

Invocation

श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः।
त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना॥
Āryāsaptaśatī by Govardhana

We salute the poets of Rāmāyaṇa, Mahābhārata and Bṛhatkathā from where the three-streamed charming Sarasvatī emerges as one.

This verse from Govardhana’s Āryāsaptaśatī. Anantapaṇḍita comments as follows:

वाल्मीकिव्यासगुणाढ्यान्नमस्कुर्मः। यैर्वाल्मीक्यादिगुणैर्भिन्ना। विलक्षणरीत्यनुसरणादिति भावः। सरसा शृङ्गारादिमती। पक्षे सजला। वाणी सती नदीव त्रिस्रोता गङ्गेव। स्वर्गमृत्युपातालेषु प्रवाहवत्त्वाद्गङ्गायाः। एवं च वाल्मीक्यादिवाचां सकलकल्मषविनाशकत्वं द्योत्यते। स्फुरति। एवं च त्रितयवाचां वास्तवैकरूपत्वमेवेति व्यज्यते। तेन च वाल्मीक्यादित्रितयस्य समानत्वमावेद्यते। यद्वा वाल्मीक्यपेक्षया किंचिन्यूनत्वं व्यासे, ततो गुणाढ्य इति ध्वन्यते। पूर्वत्र श्रीपदं त्रिष्वप्यन्वेति, अत्र रामायणमात्रे॥

This post is licensed under CC BY 4.0 by the author.